यस्तारकं राममनुं वितेने सुकाव्यरूपेण विरिञ्चिवाक्यात्।
तेनैव धर्मं समुवाच धीरो वन्दे कवीनां प्रथमं गुरुं तम्॥
एवम् आदिकविं महर्षिं वाल्मीकिम् अनुस्मृत्य अद्य वाल्मीकिजयन्तीशुभदिने तन्नमस्कारात्मकोऽयं लेखो अत्र भक्त्या प्रस्तूयते।
काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥
इति मम्मटाचार्येण कान्तातुल्योपदेशप्राप्तिरपि काव्यस्य प्रयोजनेषु वर्णिता। धर्मोपदेशायैव भगवता वाल्मीकिना रामायणाभिधम् आदिकाव्यमिदं रचितमिति सुस्पष्टं यत् श्रीरामकथामाश्रित्य राजधर्मं पुत्रधर्मं स्त्रीधर्मं भृत्यधर्मं च वर्णयता पदे पदेऽतिसूक्ष्मो धर्म एवात्र तत्रभवता आदिकविना सरसं समुदाहृतः। अविचारणीयं खल्वेतत् यत् चतुर्वर्गफलप्राप्त्यै वेदोपबृंहणाय चैव महर्षिः काव्यमेतच्चकारेति। स्वल्पमेव कथितं स्वविषये स्वकीये काव्ये आदिकविना। तथापि ज्ञायते यद् भगवान् वाल्मीकिः श्रीरामचन्द्रस्य समकालिकः आसीत् तथा श्रीरामस्य शासनकाले एव तेन श्रीमद्रामायणं रचितमिति। वाल्मीकिः स्वकीये काव्ये पात्ररूपेण आत्मानं परिचाययति। श्रीरामकुमारयोः कुशलवयोर्जन्म वाल्मीकेः आश्रमे एवाभवत्। स एव तौ आदिकाव्यं पाठयित्वा श्रीरामसमक्षं तौ च तदगापयत्। स एव श्रीरामस्याग्रे सीतायाः सतीत्वस्य प्रत्ययं च ददौ। इत्येतानि रामायणे स्पष्टं प्रोक्तानि।
केषुचित् पुराणेषु रामायणान्तरेषु च वाल्मीकेर्जीवनविषये व्यपदेशो वर्तते। जन्मान्तरे अयं स्तम्भनामा श्रीवत्सगोत्रो ब्राह्मण आसीत् तदनु व्याधोऽभवत्। व्याधजन्मनि सत्सङ्गात् रामनामजपेन जन्मान्तरेऽयं अग्निशर्माख्यो ब्राह्मणोऽभवत्। तदापि प्राक्तनसंस्कारवशात् व्याधकर्माणि एव आचरत् । कदाचित् सप्तर्षिसङ्गात् “मरा मरा” इति जपन् तपस्यंश्च वल्मीकेनावृतोऽभवत् तेनैव वाल्मीकिरिति ख्यातिं गतः। इति तच्चरितं स्कन्दपुराणे वर्णितः। अत्र अग्निशर्मा भार्गवगोत्रोऽभवदिति अनुमीयते यद् वायुपुराणे अस्य भार्गव इति उल्लेखो वर्तते। वाल्मीकीयरामायणेऽपि महर्षेः प्राचेतस इति नामोपलभ्यते। भार्गवो वरुण एव प्रचेता इति विदितमेव। अतः प्रचेतसः भृगोश्च गोत्रापत्यत्वेन अग्निशर्मा प्राचेतसः भार्गवश्चेति व्याहृतः स्यादिति मन्ये। अस्य ऋक्षः इति नामान्तरं उपलभ्यते वायुपुराणादिषु केषुचित् पुराणेषु। तेषु ऋक्षापरनामा वाल्मीकिः चतुर्विंशे द्वापरे वेदविभजनाद् व्यासोऽभवत् इत्यपि वर्णनम् अस्ति।
जन्मना द्विजः सन्नपि चौरैः सङ्गम्य वाल्मीकिः प्राक् चौरोऽभवत्। स नित्यं जनान् भृशम् अपीडयत्। एकदा सप्तर्षीन् दृष्ट्वा तेषां सर्वपरिच्छदान् हर्तुकामः तान् अन्वगच्छत्। “किमायासि?” इति ऋषयः तमपृच्छत्। “बुभुक्षितानां पुत्रदारादीनां संरक्षणार्थायैव गिरिकानने चरामि” इति स प्रत्यवदत्। “यूयं मम पापसञ्चयस्य भागिनः किं वा न?” इति कुटुम्बकं प्रष्टुं ऋषयः तमचोदयत्। गृहं गत्वा सोऽपि पुत्रदारादीनपृच्छत्। “तव एव सर्वपापं, वयं केवलं फलभागिनः” इति तेषाम् उत्तरं श्रुत्वा स मुनीनां शरणमगच्छत्। मुनयस्तु परस्परं समालोच्य “एकाग्रमनसा मरा इति सर्वदा जप” इति तम् उपादिशन्। सोऽपि निश्चलो भूत्वा बहुकालम् एकाग्रमनसा अजपत्। स वल्मीकेनावृतोऽभवत्। युगसहस्रान्ते पुनरागम्य ऋषयः तं आह्वयन् स झटिति वल्मीकात् बहिः आजगाम। तदा “यस्मात् वल्मीकात् तव द्वितीयं जन्माभवत् त्वं वाल्मीकिः मुनिः असि” इति सप्तर्षयः तमवदन्। इति तस्य वृत्तान्तं आध्यत्मरामायणे विद्यते। भविष्यपुराणे, आनन्दरामायणे, रामचरितमानसे, वङ्गभाषीय-कृत्तिवासरामायणे च इयं कथा किञ्चिद्भेदेन वर्णिता।
तपोनिधिः वाल्मीकिः प्रथमं नारदमुखात् श्रीरामचरितम् अशृणोत्। तदनु तमसातटे निषादः कोऽपि वाल्मीकेः समक्षं काममोहितात् क्रौञ्चमिथुनात् पुमांसम् अमारयत्। तदा निषादं शपतः वाल्मीकेः शोकः पादबद्धश्लोकरूपेण आविरभवत्। ”मम इच्छया एव सरस्वती एवं प्र्वृत्ता, मनोरमां श्लोकबद्धां रामकथां कुरु” इति ब्रह्मा स्वयं तम् आदिशत्। ब्रह्मप्रासादेन श्रीरामस्य सर्वरहस्यप्रकाशवृत्तान्तं ज्ञात्वा वाल्मीकिः रामायणाभिधं सनातनकाव्यम् अरचयत्। इति कथा रामायणस्य बालकाण्डे उपलभ्यते।
प्रायः पण्डितमानिनः आधुनिकाः लेखकाः “सीतायाः दृष्ट्याः सीतां प्रधानीकृत्य वा रामायणं लिखामि” इति विकत्थन्ते। एतत् तु विडम्बनम् एव। भगवान् वाल्मीकिः स्वयं स्वकाव्ये सीतायाः प्राधान्यं प्रतिपदयन्नेव “सीतायाश्चरितं महत्” इति स्वकीयं काव्यम् अवर्णयत्।
श्रीमद्रामायणं च महाभारतं भारतीय कवीनां विशेषेण संस्कृतकवीनांम् उपजीव्यकाव्ये इति विदितमेव। श्रीमद्रामायणं न केवलं पाश्चत्त्यकाव्यानामुपजीव्यं , किन्तु भगवान् सकललोकवन्द्यः महर्षिः कृष्णद्वैपायनोऽपि तदधीत्यैव पुराणानि महाभारतं च रचितवान् इति बृहद्धर्मपुराणे प्रतिपादितम्। –
रामायणे पाठिते मे प्रसन्नोऽस्मि कृतस्त्वया। करिष्यामि पुराणानि महाभारतमेव च॥ (१.३०.५५)
असन्दिह्यमेतत् यतो भगवता द्वैपायनेनापि महाभारते वाल्मीकेर्नामोल्लेखनपुरस्सरं रामायणस्यश्लोकमुद्धृतम्।
विश्वस्मिन् सर्वेषां कवीनां महर्षिः वाल्मीकिः परमो गुरुः इति निश्चयेन वक्तुं शक्यते। अतः कविभिः पुराणैः आधुनिकैश्च महर्षेः वाल्मीकेः कीर्तिः भूयो भूयः प्रगीता। यथा –
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
एवं कविकुलगुरुः कालिदासो रघुवंशे पूर्वसूरिशब्देन सादरम् वाल्मीक्यादीन् पूर्वकवीन् एव उदाहरति। अस्मिन्नेव महाकाव्ये चतुर्दशसर्गे कालिदासः वाल्मीकेः कवित्वप्राप्तिघटनां स्मरति-
तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वं आपद्यत यस्य शोकः । ।
सदूषणाऽपि निर्दोषा सखराऽपि सुकोमला। नमस्तस्मै कृता येन रम्या रामायणी कथा॥
विरोधाभासमाश्रित्य एवं नलचम्प्वां त्रिविक्रमभट्टो रामायणस्तुतिपूर्वकं वाल्मीकिं नमस्करोति।
लौकिकानां हि साधूनां अर्थं वागनुधावते। ऋषीणां पुनराद्यानां वाचं अर्थोऽनुधावति॥
इति वाल्मीकिवचनस्य स्वतः सिद्धां सार्थकतां महाकविः भवभूतिः प्रतिपादयति।
भास्वद्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिः विजयते वल्मीकजन्मा मुनिः।
पीत्वा यदवदनेन्दुमण्डलगलत्काव्यामृताब्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति॥
सूर्यकुलकीर्तिललनायानर्तने पूर्वरङ्गस्य वादित्रध्वनिरूपेण अत्र वाल्मीकिः केनचित् कविना श्लाघ्यते।
साहित्यदृष्ट्या रामायणस्य सौष्ठवं तु विदितमेव। पुनः तद्धर्मसङ्ग्रहरूपेण च कीर्तितम्। अपि च भक्तिमार्गप्रतिष्ठापनाचार्यैः रामायणं भक्तिशास्त्ररूपेण अङ्गीक्रियते यदत्र लक्ष्मणाञ्जनेयविभीषणादिचरितेन दास्यसख्यप्रपत्त्यादिभक्तिविषयाणि वर्णितानि।ततो भगवान् वाल्मीकिः भागवतोत्तमरूपेण स्वीकृतः। अतः प्रोक्तम्-
यः पिबन् सततं रामचरितामृतसागरम्। अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम्॥
वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः तृप्तिं करोमि कथमप्यधुना बुधानाम्।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितॄणाम्॥
एवं विद्वत्तमो महाकविः भोजराजः वाल्मीकिं प्रति कवीनां निरन्तरकृतज्ञतां व्यञ्जयति। तेनैव भावेन पुनः पुनः
अनवरतं श्रीरामकथालापिनं वन्दे वाल्मीकिकोकिलम्।
Feature Image Credit: wallpapercave
Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.