close logo

बौद्धं संस्कृतं च

भेडसगांव्करोपाधिकेन श्रीशमहोदयेन चोदितः अहं, बौद्धं संस्कृतभाषा इत्यनयोः सम्बन्धस्य विषये किञ्चिदिव लिखामि। अस्मिन् लेखे “का नाम पाळीभाषा”, “बौद्धसंस्कृतग्रन्थाः”, “संस्कृतं किमवरुद्धं” इति विषयाः व्याख्याताः ।

का नाम पाळीभाषा?

श्रीलङ्कादेशे बौद्धमतस्य थेरवादस्य अनुयायिभिः द्विसहस्राधिकवर्षेभ्यः पूर्वकालात् त्रिपिटकादयः बौद्धग्रन्थाः एकया विशिष्टया भाषया रचयित्वा रक्षिताः । तां भाषां ते प्राचीनमगधदेशे उपयुज्यमाना “मागधीभाषा” इति मत्वा “मागधी” इति कथयन्ति । किन्तु प्राचीनमगधदेशे भूता मागधी नाम प्राकृतभाषा अन्या एव, तस्याः भिद्यते । अतः श्रीलङ्कायाम् उपयुज्यमानां भाषाम् अभिज्ञातुं सम्प्रति “श्रीलङ्कामागधी” इति अभिदध्महे ।

तत्र त्रिपिटकस्य मौखिकाध्ययनस्य समये प्रत्येकं प्रपाठकं “पाळी” इति वदन्ति । तत् पदं “पाठी” इति पदस्यैव सगोत्रजं तत्सम्बद्धं वा । ततः त्रिपिटकस्य पठ्यानां ग्रन्थभागानाम् अपि पाळीग्रन्थाः इति नाम आगतम् । पाळीग्रन्थानां भाषा, अथवा पाळीनां भाषा इत्यर्थेन पाळीभाषा उच्यते । यदा पाश्चात्याः श्रीलङ्कायाः बौद्धवाङ्मयं प्रथमवारम् अधीतवन्तः तदा तैः तस्याः भाषायाः नूतनमेव नाम दत्तं “पाळी” इति । एतत् अर्वाचीनं नाम सुपरिच्छिन्नं नास्ति इत्यतः तन्नाम्नः शैथिल्यम् । अतः तां भाषां प्रामाणिकेन नाम्ना श्रीलङ्कामागधी इत्येव कथयामः ।

सा श्रीलङ्कामागधी संस्कृतस्य बहु समीपवर्तिनी । अत्रत्याभ्यः प्राकृतभाषाभ्यः समीपतरां वदन्ति । अल्पेन अभ्यासेन संस्कृतज्ञः श्रीलङ्कामागधीम् अवगन्तुं पारयेत् । एतया भाषया श्रीलङ्कादेशं विहाय अन्यत्र ग्रन्थाः न रचिताः इति । सा भाषा प्राकृतभाषा आसीत् वा, इत्युक्ते प्राकृतिकविकसनेन उद्भूता वा, इत्यत्र नाप्तं किम् अपि प्रमाणम् । अतः एव सा भाषा प्राकृतभाषासु न गण्यते ।

बौद्धसंस्कृतग्रन्थाः

बौद्धानां ग्रन्थाः आदौ मौखिका एव आसन्, ये च पश्चात् लिखितपुस्तकरूपेण संरक्षिताः इति ।  संस्कृतभाषया अपि बौद्धग्रन्थाः बुद्धस्य महापरिनिर्वाणकालात् आरभ्य, शकाब्दात् द्वादशशतकपर्यन्तं ग्रथ्यमानाः आसन् इति कथ्यते । शकाब्दगणनात् पूर्वं (शकपूर्वं वा) बहोःकालात् पूर्वम् एव, सर्वास्तिवादः इति  बौद्धमतम् आसीत् । तैः सर्वास्तिवादिभिः विशिष्य संस्कृतभाषया एव ग्रन्थाः ग्रथिताः । एतेषाम् एव प्रचीनतमं बौद्धसंस्कृतग्रन्थान् जानीमः । ततः पश्चात् आगतानां महायानिनाम् अन्येषां केषाञ्चन चापि संस्कृतग्रन्थाः प्रवृत्ताः । एवंरीत्या संस्कृतेन अद्यत्वे बृहत् बौद्धं वाङ्मयम् इति ज्ञायते । तेषु बहवः ग्रन्थाः अद्य लुप्ताः सन्तः नाम्ना मात्रं सन्ति, येषु केचन खण्डशः लभ्यन्ते, केचन चीनीय,माङ्गुल,निहॊन्,भोटभाषाभिः अनूदिताश्च लभ्यन्ते ।

प्राचीनतमेषु बौद्धसंस्कृतग्रन्थेषु अन्यतमः अवलोकितसिंहभिक्षोः धर्मसमुच्चयः नाम ग्रन्थः । शकपूर्वं शतं वर्षाणां पूर्वमेव संस्कृतात् चीनीयभाषया अनूदितः इति उच्यते । तस्मात् ग्रन्थात् उदाहरणम् एवम् –

सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे। भवेत् प्रवर्तकं दुःखं येन धावति बालिशः॥ वातादयो न दोषाः स्युर्दोषा रागादयो मताः। वातादिभिरपायेषु मानवो नोपपद्यते॥ चित्तदोषो महादोषो नित्यं पापविदर्शकः। तस्मात्तेषां समाश्रेयो न वातादिगमादिह॥

॥धर्मसमुच्चयः, श॰पू॰ >१००॥

केषाञ्चन बौद्धसंस्कृतग्नन्थानाम् आवलिः –

प्राचीनतमं मन्यमानाः सूत्रनिकायग्रन्थाः (अनेके आगमग्रन्थाः, सूत्रग्रन्थाः, उदानवर्गः, धर्मपदं च) । महायानसूत्रग्रन्थाः बहवः, विनयग्रन्थाः बहवः, अभिधर्मग्रन्थाः बहवः, तेषां संस्कृतव्याख्यानानि, पारायणाय धारणीग्रन्थाः, पुराणवत् अवदानग्रन्थाः (अवदानशतकं, दिव्यावदानं, ललितविस्तरः, इत्यादयः), जातकमालाग्रन्थाः, स्तोत्रग्रन्थाः, महायानानां माध्यमिकानां योगाचाराणां च शास्त्रग्रन्थाः बहवः, प्रमाणशास्त्रग्रन्थाः, तन्त्रशास्त्रग्रन्थाः, प्रयोगग्रन्थाः, काव्यानि च (मैत्रेयव्याकरणं, शारीपुत्रप्रकरणं, बुद्धचरितं इत्यादयः) ।

अश्वघोषस्य बुद्धचरितं शकाब्दस्य समीपकाले रचितम् । तस्मात् इदम् उदाहरणम् –

विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः। तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुं ईयुर्न मठानभीयुः॥

दृष्ट्वा तं इक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम्। कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्ह्यदुहश्च गावः॥

बौद्धसंस्कृतग्रन्थानां मातृकाः

अद्यत्वे आचर्यमाणेषु बौद्धमतस्य प्रभेदेषु अन्यतमं मतं नेपालेषु आचर्यमाणं नेवारीयाणां बौद्धम्, यत् मतं संस्कृतभाषाम् अवलम्बते । तेषां आगमः, अनुष्ठानं, सिद्धान्तः च सर्वम् अपि संस्कृतेन अस्ति । तेषाम् अविच्छिन्नायाः परम्परायाः तत्र अद्यापि सहस्रशः बौद्धसंस्कृतग्नन्थानां पाण्डुलिपयः रक्षिताः सन्ति, येषु च बहवः अप्रकाशिताः । तद्विहाय बौद्धसंस्कृतग्रन्थानां पाण्डुलिपीनां ग्रन्थसङ्ग्रहाः भोटदेशे (‘तिब्बत्’ इति अलरबीयभाषया), गोस्थानप्रान्ते (खोतान् इति काश्मीरात् उत्तरस्थदेशः), चीनदेशे च लभ्यन्ते ।

अद्य उपलब्धेषु प्राचीनतमाः मातृकाग्रन्थाः लब्धाः अद्यतनस्य चीनदेशस्य पश्विमभागस्थस्य शी॑न् च्या॑ङ् (新疆) राज्यस्य (संस्कृतेन कुचीनं कथ्यमानस्य देशस्य) ख॑ द्ज़अ॒ऱ् (克孜爾) नाम गुहासु  । शतस्य वर्षाणां पूर्वम् तदधीतस्य शार्मण्यदेशीयस्य नाम्ना स्पिट्सग़् मातृका इति प्रसिद्धः । उपद्विसहस्रवर्षेभ्यः पुरातनम् इत्यस्मात् बहु जर्जरितः अस्ति । तस्मिन् ~१००० ताडपत्राणां खण्डानि सन्ति । तस्मिन् प्राचीनानां बौद्धसंस्कृतग्रन्थानां खण्डानि विहाय महाभारतस्य आदिपर्वणः अनुक्रमणिकापर्वपुरस्सरं केचन अध्यायाः, उपनिषत्खण्डानि, शास्त्राणां खण्डांशाः, साङ्ख्य-मीमांस-नैयायिकैः बौद्धमतखण्डनस्य वादाः, इतरग्रन्थानां च भागाः सन्ति । कालवशात् जीर्णानि पुटानि इत्यतः सर्वं खण्डशः एव पठितुं लभ्यते । लेखनं कुशानकालस्य ब्राह्मीलिप्या कृतं दृश्यते ।

उदाहरणार्थं तस्य एकस्य पृष्ठस्य चित्रे अस्मिन् इदं दृश्यते इति –

..नृतं संस्कृतं सत्यं कस्मादभूतार्थाभिवादात् प्राकृतं ह्यभ…ं नाम .. तच्च नैवमभिहितं भवति तस्मात् प्राकृतं वा या..

बुद्धः किं संस्कृतविरुद्धः आसीत्?

बुद्धस्य जीवितावधौ सः तत्तत्क्षेत्रीयाभिः लोकभाषाभिः बोधयति स्म इति ज्ञायते[1] । किञ्च अर्वाचीनकाले बुद्धः संस्कृतस्य विरोधी आसीत्, स्वशिष्यान् संस्कृतस्य उपयोगात् प्रतिरुद्धवान् इति च प्रवादः श्रूयते । तस्य प्रमाणे दृष्टे, एकमेव उद्ध्रियते श्रीलङ्कामागधीभाषया रचितेषु त्रिपिटकेषु, विनयपिटकस्य क्षुल्लवर्गः (श्रीलङ्कामागध्या “चुल्लवग्गो”) नामके सङ्ग्रहे एकः अनुवाकः । तस्य अनुवाकस्य मूलपाठः संस्कृतच्छायया एवम् अस्ति –

एतस्य अनुवाकस्य अर्थः कः इत्यत्र बौद्धविदुषां पक्षद्वयम् अस्ति । तत्र “छन्दसः/छन्दसा आरोपयाम” इति प्रश्नस्य कः आशयः इत्यत्र एव तयोः पक्षयोः विप्रतिपत्तिः । प्रथमपक्षे संस्कृतेन अनुवदामः इति पृष्टवतोः प्रतिरुद्धवान् बुद्धः इति आशयं निश्चिन्वन्ति । अपरपक्षे “छन्दसा आरोपयाम” इत्यस्य “पद्यरूपेण आरोपयाम, येन बुद्धवचनपदानि परिवर्तनदोषेभ्यः रक्ष्यन्ते” इति वा, भिन्नः वा अर्थः स्यात्, किञ्च संस्कृतेन अनूदितुं नासीत् कोऽपि प्रतिरोधः इति तु निश्चिन्वन्ति ।

प्रथमपक्षस्य अवगमनं प्राचीनं यत् श्रीलङ्कादेशस्य थेरवादिनः व्याख्यानरूपिण्याम् अट्ठकथायां दृश्यते । एषः एव पाश्चात्यविद्वद्भिः प्रतिष्ठापितः सन् प्रचुरतरः पक्षः । तस्मात् आधुनिके लोके प्रतिष्ठापितम् प्रथमपक्षस्य मतम् ।

किन्तु, यदि बुद्धः स्वशिष्यान् संस्कृतभाषाप्रयोगात् अवारोत्स्यत् तर्हि प्राचीनकालात् विद्यमाना सुदृढा संस्कृतेन ग्रथनपरम्परा बुद्धवचनविरुद्धम् इति व्याहतिः स्यात् । अतः तत्र नैव बुद्धेन संस्कृतभाषया ग्रन्थरचना अवरुद्धा आसीदिति अपरपक्षः उपपद्यते ।

***

[1] बुद्धस्य प्रवचनभाषा का आसीत्?

बुद्धः तत्कालीनकोसलदेशस्य मगधदेशस्य च भाषयोः प्रवचनानि कृतवान् इति श्रुणुमः । किन्तु के ते भाषे इति निष्कृष्टं न ज्ञायते समकालीनप्रमाणानाम् अभावात् । बुद्धस्य अधिकसमयः यापितः मगधदेशे । तद्देशे एव तस्य कालात् शतकत्रयात् अनन्तरं विद्यमानेन राज्ञा अशोकेन कर्दयिताः शिलालेखाः मागधीप्राकृतभाषया लिखिताः । तस्मात् बुद्धस्य अधिकतरं प्रवचनभाषा मागधीप्रकृतम्, अथवा तस्याः भाषायाः स्वल्पं पूर्वतनी काचित् इति अनुमिन्मः । बुद्धवचनं मागध्या आसीत् इति श्रीलङ्कादेशस्य परम्परागतः विषयः । तस्मादेव ते तेषां त्रिपिटकस्य भाषाम् मागधी वदन्ति इति पूर्वमेवोक्तम् ।

Norman, K. R. (1997). A philological approach to Buddhism. School of Oriental and African Studies, University of London. pp62

Feature Image Credit: istockphoto.com

This article was originally published by https://sambhashanasandesha.in/ in 2021

Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.

Leave a Reply

More Articles By Author