close logo

मौनस्य आत्मकथा

मौनेन मौनस्य लक्षणम्

भूमिका

मुनेर्भावः इति मौनस्य लक्षणम्। सम्प्रति कोलाहलपूर्णे जगति यत्र तत्र शब्दाः एव दरीदृश्यन्ते। एवञ्च मौनं लुप्तमेव जातमिति भासते। अस्मिन् निबन्धे मौनम् आत्मकथया स्वीयपरिचयं ददाति। मौनस्य महात्म्यं दोषाः वा के इति सुभाषितानि आश्रित्य हास्यकथारूपेण प्रस्तूयते  अत्र।

मम नाम मौनम्।  तूष्णीम्भावः इति मम अपराभिधेयम्। तार्किकेभ्यः अहम् अभावपदार्थः। शब्दानामभावः यावत्। ते मां तिरस्कुर्वन्ति किन्तु मम विपरीतपदार्थाय शब्दाय तेषां ग्रन्थे प्रामुख्यं वर्तते। शब्दः प्रमाणमिति तेषां मतम्। भवतु नाम। जगदिदं मायामयम्। किं कर्तुं शक्यते। अहं किञ्चित् मम विषये वदामि यद्यपि तत् मम प्रकृतेः विरुद्धम् अस्ति।

अहं सर्वत्रास्मि किन्तु जगतः कोलाहले लुप्तं भवामि। माम् अङ्गीकृत्य जनाः सर्जनात्मकाः भवन्ति। तेषां कला एव वदति यत् मम त्यागः तेभ्यो न अनिवार्यः। बधिराणाम् अहं जीवनसंगि। ते मां शापं मन्वते।

योगिनाम् अहं वरदानं किन्तु बन्दीनां शापः। योगिनः यद्यपि माम् अङ्गीकुर्वन्ति, यावत्पर्यन्तं तेषां मनः मां न स्वीकरोति तावत् पर्यन्तं ते ध्याने साफल्यं न प्राप्नुवन्ति। अतः मुनिना पतञ्जलिना  तेभ्यः योगसूत्राणि दत्तानि। मनसः विरुद्धां प्रवृत्तिं दृष्ट्वा कविः राजशेखरः तस्य विषये इदं कथयति –

मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम्।

तन्मध्ये भूतसञ्चारो यद्वा तद्वा भविष्यति।

अयं श्लोकः कथयति यत् मदमत्तमर्कटवत् मनः तूष्णीं न तिष्ठति। तत् मां नाङ्गीकरोतीति तात्पर्यम् ।भवतु नाम।मनस्तु चञ्चलम्। ननु मनसि अहं तिष्ठामि वा न वा इत्यनेन सामान्यजीवने का समस्या स्यात् । मम अनुपस्थितिः कदाचित् दुःखस्य कारणं भवितुमर्हति इति कविः भर्तृहरिः नीतिशतकात् प्रदर्शयति यत् –

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।

अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्।

अत्रत्यां प्रशंसाम् अपेक्षते कविः, किन्तु स्तोतारः मां स्चीकृत्य करतालमपि न कुर्वन्ति। अतः एतादृशात् व्यवहारात् संतापितः कश्चन कविः अधोलिखितपद्येन मनोवेदनां प्रदर्शयति –

इतरतापशतानि यदृच्छया विलिख तानि सहे चतुरानन।

अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥

इति।

कवयः तु बुद्धिजीविनः। अतः तैः एव अस्याः समस्यायाः कारणमपि प्रदर्श्यते (सुभाषितरत्नभाण्डागारे) यथा

नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी।

गुणी च गुणरागी च विरल: सरलो जन:॥

कविः कथयति मम स्वीकारस्य कारणद्वयं भवितुमर्हति। जनेषु गुणपरिचयाय सामर्थ्यं नास्ति। अथवा मत्सरभावेन ते किमपि न वदन्ति। अहो, अस्य अपि दोषः मह्यं प्राप्तः।

किमहं केवलं विदुषां कृते दोषः भवामि वा? तथा न। सामान्यजनेभ्यः अपि  अहं कष्टस्य कारणम् इति इतिहासः साक्षी अस्ति। पश्यत कथं काश्मीरपण्डितानां दुर्गतिः  सार्वजनीनां मदङ्गीकरणेन​ अभवत्। कोऽपि दुर्बलानां काश्मीरपण्डितानां कृते तेषां रक्षणाय शब्दमपि न अकरोत्।  अत्र दुर्बलानां वेदना मयि लुप्ता जाता।  कथ्यते   सुजनाः दुर्जनानां दुष्कृतिं दृष्ट्वा किमपि न कुर्वन्ति  कथयन्ति वा तदा खलानामुत्साहः वर्धते। हा, अयं प्रसङ्गो मह्यं लज्जादायकः अस्ति। केवलं दोषाः न मयि गुणाः अपि स्युः किल। अत्रत्याम् अग्रे परिशीलयामः।

यदि जनाः मां सम्यक् जानन्ति तदा तेभ्यः अहमुपयोगि भवामि इति उदाहरणमस्ति नित्यनीतौ – यत्

मौखर्यं लाघवकरं मौनमुन्नतिकारकम्।

मुखरं नूपुरं पादे कण्ठे हारो विराजते॥

सत्यं खलु, यन्नूपुरं मम विरोधि तत् पादे स्थानं प्राप्नोति। शान्तिमयो हारस्तु कण्ठे विराजते। कार्यालयेषु अपि बहुभाषिणः प्रगतिच्युताः भवन्ति। तत्र मम अभावः एव कारणमिति वक्तुं न कोऽपि क्लेशः।

कविः भर्तृहरिः अपि मम प्रशंसायां कथयति यत् अपण्डितेभ्यः भूषणम् अहमिति । यथा –

स्वायत्तम् एकान्तगुणं विधात्रा विनिर्मितं छादनम् अज्ञतायाः ।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥

तत्र पुनः केवलम् अपण्डितेभ्यः न तु पण्डितेभ्यः अपि अहमुपयोगि इति अन्यः कविः कथयाति –

कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्।

परस्परं संवदतां खलानां मौनं विधेयं सततं सुधीभिः॥

दुर्जनानां कलहे सुजनानां किं वा कार्यम्? जगतः शान्तये मम आवश्यकता अनिवार्या इति अनेन श्लोकेन सर्वप्रत्ययसिद्धम्। अन्ते अन्यं दृष्टान्तं प्रदाय अहं मौनं तूष्णीं भवामि –

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः।

जानन्नपि हि मेधावी जडवल्लोक आचरेत्।

यदि न पृष्टः तर्हि न वक्तव्यम्। पुनः यदि  कोऽपि अन्यं पृच्छति तदापि तूष्णीं भूयात् इति तात्पर्यम्।

ॐ शान्तिः शान्तिः

उपसंहारः

मौनस्य स्थानं संसारे बहुमहत्त्वपूर्णमस्ति। तथापि मौनं सर्वदा साधु इति न वक्तुं शक्यते। एवं च मौनं नैतिकमौनम् अनैतिकमौनं विकृतं चेति कदाचित् त्रिविधं विभक्तुं शक्यते।  कदा मौनं साधु कदा असाधु कदा वा विकृतम् इति निर्णेतुं  सरलं न भवति इति तु न कोऽपि संशयः। एतदुक्तं भवति। यदि  काचन नारी मित्रं प्रति उत्साहेन कथयति सा नवीनपादत्राणं १००० रूप्यकेभ्यः  अक्रीणादिति। उचितं मूल्यं तया लब्धमिति सा संतुष्टा । किन्तु तस्याः मित्रं तु तादृशं पादत्राणम् एकदिवसपूर्वं ३०० रूप्यकेषु एव प्राप्नोत् । अस्मिन् सन्दर्भे मित्रं तूष्णीमेव तिष्ठति। सा जानाति किमपि कथनं तत्र  लाभाय न स्यादिति।  नैतिकं मौनमिदमिति अत्र सिद्धमेव। अस्तु दुष्टमौनस्य उदाहरणं पश्यामः। कार्यालये “कमलः” “विमलः” चेति सहोद्योगिनौ स्तः ।  कमलः विना संकोचं स्वार्थेन मिथ्याविषयसंदेशम् उच्चाधिकारिणे  ददाति। तत् ज्ञात्वा अपि, कमलेन सह  सम्बन्धविच्छेदं मा भूदिति कारणेन, विमलः मौनं तिष्ठति।इदं मौनम्  अनैतिकं वा असाधु वा इति वक्तुं शक्यते। स्वार्थाय कार्यालयस्य हानिं करोति तन्मौनमिति। किन्तु तस्मिन्नेव सन्दर्भे चिन्त्यतां यत् कमलः स्वकृतः संदेशः दूषितः इति न वेत्ति। विमलो जानन्नपि मौनं तिष्टति। कमलः एतं विषयं प्रबन्धकं प्रति प्रस्तौति चेत् प्रबन्धकेन कमलो निन्द्यते  इति अपेक्षा विमलस्य । इदं मौनं विकृतमिति कथयितुं शक्यते।

अतः मौनं यद्यपि सर्वदा साधु, किन्तु यदा कदा निन्दनीयमपि भवितुमर्हति इति लेखस्य आशया।

Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.