यथा ब्रह्म दृश्यमानायाः सृष्टेः कर्ता तद्वत् ऋषिः अपि अद्भुतं शाब्दिकं प्रपञ्चं असृजत् । ब्रह्मणः भौतिके जगति यथा वैचित्र्यं पश्यामः तद्वत् अस्यापि ऋषेः वैदिकप्रपञ्चे अनेकानि वैचित्र्याणि पश्यामः। ब्रह्म यथा भोक्तृप्रपञ्चस्य प्रयोजनाय भोग्यं सृजति तद्वत् अत्र मानवानां प्रयोजनाय अनेकान् देवतामन्त्रादीन् पश्यति । अत एव अहं वदामि “शाब्दिकप्रपञ्चस्य स्रष्टा, मन्त्राणां द्रष्टा च ऋषिः” इति ।
- ऋषिः –
ऋषिः स्वयं सौन्दर्यप्रज्ञायाः आकरः प्रतिमूर्तिः चा आस्ति । यतः सहस्राधिकैः वर्षैः पूर्वं एतैः दृष्टाः मन्त्राः अधुनापि सस्वररूपेण उपलभ्यन्ते । इदमेव ऋषीणां सौन्दर्यमिति वदामः यत् “सहस्राधिकेभ्यः वर्षेभ्यः रूपान्तरं विना (शब्दान्तरम्, स्वरान्तरम् ) यः वेदः ऋषिणा उच्चारितः स एव वेदः मया अपि उच्चार्यते इति”. केचन वदन्ति “काश्चन वेदशाखाः नष्टाः” इति किन्तु वेदशाखाः न नष्टाः, अस्माकं वेदावधारणप्रज्ञा नष्टा, अत वेद एव नष्टा इति प्रतिभाति। प्रज्ञासौन्दर्यं नाम इदं यत् “नित्यनूतनं सत् चिरकालं तिष्ठत् सार्वकालिकं सार्वदेशिकं सार्वजनीनं च भवति तत् सौन्दर्यम्”। वेदे अस्य लक्षणस्य समन्वयः एवं भवति यत् “वेदाध्ययनं कुर्वन्तः जनाः अधुनापि नूतनविचारान् प्रकटयन्ति अत नित्यनूतनम्, सहस्राधिकेभ्यः वर्षेभ्यः अस्य अध्ययनं भवदस्ति अत चिरकालस्थायि, वेदोक्ताः विषयाः पुरा अपि नवीनाः भवन्ति अत अस्य (पुरातनम्, नूतनम् outdated & Updated शब्दौ न स्तः) सार्वकालिकम्, यद्यपि केषुचित् प्रदेशेषु अस्य वेदस्य उद्गमः श्रूयते किन्तु अयं वेदः सर्वत्र देशेषु प्रसृतः अस्ति। अयं वेदः केवलं एकस्य धर्मस्य मतस्य वा जनसमूहस्य हितमेव न काङ्क्षते किन्तु प्रपञ्चस्य समेषामपि जीवजन्तूनां हितचिन्तकः अस्ति । अत लक्षणमिदम् ऋषिभिः ऋतुम्भराप्रज्ञया दृष्टेभ्यः मन्त्रेभ्यः सङ्गच्छते।
- ऋषिलक्षणानि –
सर्वेषाम् अस्माकं कुलम् ऋषिकुलमेव अस्ति । इदं गोत्र-प्रवरकथनम् अस्माकं परम्परायां प्रचलितम् वर्तते। । गोत्र-प्रवरेण ज्ञायते यत् एकैकोऽपि मनुष्यः ऋषिणा अथवा ऋषिसमूहेन सम्बद्धः अस्ति। क्वचित् गोत्र-प्रवरस्मरणस्य सम्प्रदायाभावात् केचन न जानन्त् किन्तु तस्य ऋषिणा सह सम्बंधः नास्ति, ऋषिकुलं नास्ति इत्यादिकं वक्तव्यम्। अनेन अस्माभिः ज्ञातव्यं यत् ऋषयः उग्रं तपः कृत्वा ज्ञानप्रदानेन समग्रमपि मानवकुलं स्ववशे स्थायन्ति इति। सत्यसन्धस्य ऋषेः ज्ञानसम्पादनं तदुपदेशः चैव जीवनस्य व्रतमासीत्। तदुच्यते –
ऊर्ध्वरेतास्तपस्युग्रः नियताशीः च संयमी। शापानुग्रहयोः शक्तः सत्यसन्धो भवेदृषिः॥ यद्यपि मानवाः एव ऋषयः बभूवुः तथापि आवयोः को भेदः इति ज्ञातव्यम् । अनेकेषु अंशेषु भेदान् वक्तुं शक्नुमः तथापि भवभूतेः वचनानुसारं सुन्दररूपेण वर्णयामः। वयं सामान्याः मानवाः शब्दानाम् अर्थं ज्ञात्वा शब्दप्रयोगं कुर्मः अत एव अस्माकं वाक् अर्थम् अनुवर्तते । ऋषीणां साक्षात्कृतधर्माणां या वाक् तां अर्थः एव अनुधावति। तदुक्तम् –
“लौकिकानां हि साधूनामर्थं वागनुवर्तते। ऋषीणां पुनराद्यानां वाचमर्थोनुधावति”॥
वेदभाष्यकारः सायणाचार्यः अपि “अतीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वम्” इति वदति। अनेन ज्ञात्ं शक्नुमः ज्ञानं द्विविधं १. इन्द्रियाधीनम् (इन्द्रियगम्यम्), २. इन्द्रियातीतम् ( इन्द्रियागम्यम्) । इन्द्रियगम्येऽपि अत्र लौकिकज्ञाने अस्माभिः ज्ञातव्यं बहु अस्ति किमु वक्तव्यम् इन्द्रियातीते ज्ञाने । इन्द्रियातीतं यज्ज्ञानम् वेदात्मकम् ऋषिभिर्दत्तं तद् आसूर्यचन्द्रं यावत् निष्कम्प्यं तिष्ठति, इदम् उच्यते “ऋषिसौन्दर्यप्रज्ञावैशारद्यम्” इति । यज्ज्ञानम् सर्वेषामपि सूत्र-स्मृति-दर्शन-शास्त्र-इतिहास-पुराण-काव्यादीनां स्रोतं भवति, यज्ज्ञानम् निरस्त-समस्त भ्रमः-प्रमाद-करणापाटवादि पुंदूषणतया रहितं सत् अन्यैः वेदाप्रमाणबुद्धिभिः दोषाण्वेषणचक्षुभिः शतशो चिन्त्यमानेऽपि किञ्चिदपि दोषम् अपश्यन्तः वेदैकशराणाः अभवन् । अत एव उच्यते इदं ऋषेः दर्शनम्, गीर्वाणवाणी, देवभाषा इत्यादीनि । इयमेव सौन्दर्यप्रज्ञा ऋषीणाम् भवति। सर्वलोकस्य हितकाङ्क्षिणः सर्वजनस्य च सखाः समग्रवेदराशेः द्रष्टारः अस्माकं ऋषयः सन्ति। महाभारते च उच्यते –
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वं अनुज्ञाता स्वंभुवा ॥[1] इति
अनेन ज्ञायते यत् युगान्तरेषु यथा वेदाः आसन् तथा सम्प्रत्यपि वेदाः अस्यां प्रकृतौ विद्यन्ते एव। तद्द्रष्टुं अस्माकं योग्यता भवेत्। वेदाः न कदापि नष्टाः भवन्ति नित्यत्वात् । तदुक्तम् “अन्तर्हितान् वेदान्” इति। ऋषीणां विषये “उद्भूताः स्वमीश्वराः” इति श्रूयते अर्थात् स्वयम् ईश्वराः सन्तः वेदमन्त्रान् दृष्टवन्तः इति। अधुनापि वेदाः द्रष्टुं शक्याः यदि तपः आचरन्ति । ऋषयः ईश्वराः भूत्वा वेदमन्त्रान् दृष्टवन्तः। यास्काचार्यः कथयति – “साक्षात्कृतधर्माण ऋषयो बभूवुः, ते अवरेभ्यो असाक्षाकृतधर्मभ्यः उपदेशेन मन्त्रान् सम्प्रादुः।“ यैः विशिष्टेन तपसा साक्षात्कृतः प्रत्यक्षतो दृष्टो मन्त्ररूपः धर्मः ते साक्षात्कृतधर्माणः भवन्ति। अवरकालिकेभ्यः विज्ञानशक्तिहीनेभ्यः उपदेशपरम्परया शास्त्रमिदं आगतम् इति ।
- विज्ञानिनः ऋषयः :-
यत्किमपि ज्ञानम् अनुभवपर्यवसान्नं भवति चेत् तद्विज्ञानं भवति । यद्यपि आधुनिककाले विज्ञानस्य अनेकानि लक्षणानि स्युः किन्तु आर्षं लक्षणमिदम् यत् ज्ञानं स्वानुभवे पर्यवस्यति तर्हि तद्विज्ञानं भवति। ऋषीणां विषयेऽपि “साक्षात्कृतधर्माणः”, “मन्त्रदर्शनात् ऋषिः” इत्यादिभिः लक्षणैः इदं ज्ञायते “ज्ञानं विज्ञानसहितम्” इतिवत् साक्षात् आनुभविकं विज्ञानमेव अस्मभ्यं प्रदत्तवन्तः इति वक्तुं शक्नुमः । अधुनापि विज्ञानस्य अनेकेषु क्षेत्रेषु कार्यं कुर्वाणाः विज्ञानिनः बहु संशोधनं कृत्वा अन्ते इदं कथयन्ति यत् “एकस्य अभिलक्षितस्य फलसिद्ध्यर्थं किं साधनम्, कः क्रमः अथवा विधानम् आदृतव्यम्, कः अधिकारि, कथं करणीयम्.. ..” एवं सुस्पष्टतया वदन्ति उदाहरणार्थम् – एकस्य रोगस्य निवारणम् इति फलम्, एतदुद्दिश्य बहु संशोधनं कृत्वा रोगस्य निवारणार्थं किम् औषधम्, औषधस्य उत्पत्तिः कथं कर्तव्यम्, औषधस्य सेवनं कः कुर्यात् इत्यादिकं वदन्ति । तद्वत् अस्माकं ऋषयः अपि अनेकान् विषयान् मनसि कृत्वा मन्त्रान् दृष्टवन्तः । फलसिद्ध्यर्थं मन्त्रान् दृष्ट्वा च अवदन् फलसिद्ध्यर्थं किं कर्म कर्तव्यम्, कः अधिकारि, कः मन्त्रः वक्तव्यः, कर्म कीदृशक्रमेण आचरणीयम् इत्यादिकं स्पष्टतया निर्दिशन्ति। अत वयं वदामः “ऋषयः विज्ञानिनः” इति । अन्यत्रापि श्रूयते – ऋषयः – ऋषन्ति अवगच्छन्ति अमुष्मात् कर्मणः एवमर्थवता मन्त्रेण संयुक्ताद् अमुना प्रकारेण एवंलक्षणं फलं सिध्यति इति मन्त्रद्रष्टारः ऋषयः उच्यन्ते ।( एकं कर्म (यागः, होमः, पूजा) केन मन्त्रेण, कीदृशक्रमेण आचर्यते चेत् कीदृशं फलं सिध्यति इति ऋषयः जानन्ति स्म)
ऋषयः इत्यनेन केवलं पुरुषमन्त्रद्रष्टारः इति भ्रमः न स्यात् अत अत्र स्त्री मन्त्रद्रष्ट्रीणाम् उल्लेखं करोमि। यथा विश्वामित्र-वसिष्ठादीनां मन्त्रदर्शने योगदानं श्रूयते तथैव घोषा-गोधा-विश्ववारादिनां स्त्रीणामपि ऋषिकाणां मन्त्रदर्शने योगदानं महद् अस्ति। अत्र बृहद्देवताकारेण शौनकेन नामानि एवं सङ्गृहीतानि सन्ति :-
- ऋग्वेद–ऋषीकाः –स्त्री– मन्त्रद्रष्ट्रीणाम् उल्लेखः –
- घोषा गोधा विश्ववारा अपालोपनिषन्निषत् । ब्रह्मजाया जुहूर्नामा अगस्त्यस्य स्वासाऽदितिः॥
- इन्द्राणीचेन्द्रमाता च सरमा रोमशोर्वशी। लोपामुद्रा च नद्यश्च यमी नारी च शश्वती॥
- श्रीः लाक्षासर्पराज्ञेवाक् श्रद्धा मेधा च दक्षिणा। रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः॥[2]
नामानि –
| 1. घोषा | 10. इन्द्राणी | 19. श्रीः |
| 2. गोधा | 11. इन्द्रमाता | 20. लाक्षा |
| 3. विश्ववारा | 12. सरमा | 21. सार्पराज्ञी |
| 4. अपाला | 13. रोमशा | 22. वाक् |
| 5. उपनिषत् | 14. उर्वशी | 23. श्रद्धा |
| 6. निषद् | 15. लोपामुद्रा | 24. मेधा |
| 7. ब्रह्मजाया ’जुहूः’ | 16. नद्यः | 25. दक्षिणा |
| 8. अगस्त्यस्वसा (भगिनी) | 17. यमी | 26. रात्री |
| 9. अदितिः | 18. शश्वती | 27. सावित्री |
एताः सर्वाः ऋषिकाः अथवा ब्रह्मवादिन्यः इति नाम्ना प्रसिद्धाः सन्ति ।
- वैदिकाः देवताः –
देवता शब्दः दिव्’ धातुना व्युत्पन्नः अस्ति । दिव् धातोः अर्थः – क्रीडा, विजिगीषा, द्युति,स्तुति, मोद, कान्ति, गति इत्यादिषु अर्थेषु प्रयुक्तः अयं धातुः । देवता शब्दस्य अन्यानि नामानि अमरकोशे एवं सन्ति
- अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥[3]
- आदितेया दिविषदो लेखा अदितिनन्दनाः। आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः॥[4]
- बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः। वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्॥[5]
- षड्विंशति-देवतानामानि –
| 1. अमरः | 10. दिवौकसः | 19. अमृतान्धसः |
| 2. निर्जरः | 11. आदितेयः | 20. बर्हिर्मुखः |
| 3. देवाः | 12. दिविषदः | 21. क्रतुभुजः |
| 4. त्रिदशा | 13. लेखा | 22. गीर्वाणः |
| 5. विबुधाः | 14. अदितिनन्दनः | 23. दानवारयः |
| 6. सुराः | 15. आदित्यः | 24. वृन्दारकाः |
| 7. सुपर्वाणः | 16. ऋभवः | 25. दैवतम् |
| 8. सुमनसः | 17. अस्वप्नः | 26. देवता |
| 9. त्रिदिवेशा | 18. अमर्त्यः |
एतेषु अर्थयोगेषु देवस्य स्वरूपं ज्ञायते। अत्र ऋग्वेदमन्त्रेषु देवताविषये एतान् अंशान् वयं पश्यामः –
| 1. देवतास्तुस्तिः । | 6. श्रद्धादिसद्गुणेषु देवतादृष्टिः । |
| 2. देवतास्वरूपम् (कर्मानुसारम्) । | 7. देवतैकत्वनानात्वविचारः । |
| 3. देवतास्थानानि ।(पृथिव्यादीनि स्थानानि) | 8. एकस्याः देवतायाःभिन्नफलप्रदातृत्वम् इति |
| 4. देवताद्वन्द्वम् । (देवतासंयोगेन स्तवनम्) | |
| 5. प्राकृतपदार्थेषु देवतादृष्टिः।(नदी, अन्नम्..) |
- मन्त्रादौ देवताज्ञानम् :-
मन्त्र्यते गुप्तं परिभाष्यते इति मन्त्रः। मन्त्रः ऋषि-देवता-छन्दोघटितः भवति। ऋष्यादीनां परिज्ञानमन्तरा मन्त्राध्ययनम् अध्यापनं वा न कर्तव्यमिति नियमः। तत्रापि दैवतं वेदितव्यमेव इति आग्रहः अस्ति । यतः देवतापरिज्ञानं विना अधीतस्य मन्त्रस्य मन्त्रस्य फलं न सिध्यति, मन्त्रार्थोऽपि न ज्ञायते। एतदेवात्र शौनकाचार्यः बृहद्देवताग्रन्थे कथयति –
- “वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः। दैवतज्ञो हि मन्त्राणां तदर्थमवगच्छति॥”(बृ-१/२) इति ।
- नहि कश्चिदविज्ञाय याथातथ्येन दैवतम् । लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते ॥[6]
- अवश्यं वेदितव्यो हि नाम्नां सर्वस्व विस्तरः । न हि नामान्यविज्ञाय मन्त्राः शक्याः हि वेदितुम् ॥
अर्थः – देवताज्ञानवान् केवलं मन्त्रगूढार्थम् अवगन्तुम् शक्नोति, न तद्रहितः कश्चन । अतः प्रयत्नेन प्रत्येकस्मिन् मन्त्रे अपि दैवतं विजानीयात् ।यः पुरुषः मन्त्रेषु निहितान् अभिप्रायान्, तत्कर्माणि तद्विज्ञानानि ऋष्यन्तरङ्गभूतानि विजानाति स एव यथार्थमन्त्रार्थद्रष्टा भवितुमर्हति । यःकश्चिदपि मन्त्रार्थान् सम्यक् अविज्ञाय लौकिकं फलं वा वेदोक्तं फलं वा नाश्नुते ।अतः स्तुतिध्यानादिकरणेन निश्चितसाध्यप्राप्त्यर्थं देवतानां नाम ज्ञानमपि निन्तान्तम् आवश्यकम् भवति ॥
- अर्थपत्यमिच्छन्नृषिर्देवं यं यमाहायमस्त्विति । प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः ॥ [7]
- प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते । तामेव देवतां विद्यान्मन्त्रे लक्षणसम्पदा ॥[8]
अत्र आचार्यशौनकेन उक्तं तत्त्वदर्शिनः एव ऋषयः भवन्ति, अर्थात् ये धर्मादीन् पुरुषार्थान् सम्यग् ज्ञात्वा तत्पराः भूत्वा उपदिशन्ति, मुमुक्षवः च भवन्ति ते तत्त्वदर्शिनः इति कथयन्ति। ऋषिः तेन दृष्टस्य मन्त्रस्य अयमेव देवः, इदं च प्रयोजनं अस्तु इति भक्त्या स्तुवन् निर्दिशति अत स मन्त्रः तद्दैवत्यः भवति। यत्र मन्त्रे देवता-नाम प्रत्त्यक्षं स्तुतं स्यात् तत्र सा एव देवता स्वीक्रियते किंतु यत्र परोक्षं स्तुतं तत्र प्रकरणादिना ज्ञातव्यम् ॥
- देवतानां नाम्नः स्वरूपं उत्पत्तिः च ।
सर्ववेदेतिहासपुराणेषु इन्द्रादीनि देवतानामानि प्रसिद्धानि सन्ति । तेषां नाम्नामौचित्यम् अस्माभिः ज्ञातव्यमित्यतः इदमारभ्यते । वयं अस्माकं कर्मसु बहुवारं देवतानामानि वदामः किन्तु किमर्थं देवतानामानि सन्ति, केन अर्थयोगेन देवतानामानि उच्यन्ते इत्यस्मिन् विषये बहिभिः न चिन्त्यते। देवतानामानि १.श्रौतम्, २.स्मार्तम् इति द्विधा कर्तुं शक्नुमः। अधुना आधिक्येन वयं स्मार्तरूपेण देवतानां नाम वदामः किन्तु श्रौतं कल्पना अन्यादृशी अस्ति। अत्र श्रुतौ मन्त्रवित् ऋषिः स्पष्टं देवतां निर्दिशति।
- आद्यन्तयोस्तु सूक्तानां प्रसङ्गपरिकीर्तनात् । स्तोतृभिर्देवतानाम्ना उपेक्षेतेह मन्त्रवित् ।[9]
सामान्येन स्तुतिकर्तारः ऋषयः सूक्तानाम् आदौ अन्ते च प्रसङ्गं कीर्तयति । देवतानां नामनिर्णयः कथं क्रियते इति चिन्त्यमाने तत्कर्मभ्यः इति वदन्ति । नवभ्यः प्रकारेभ्यः नाम आगतमिति नैरुक्ताः, पौराणिकाः कवयश्च अभिप्रैन्ति । तानि
| 1. वासस्थानात् | 6. आशिषः |
| 2. कर्मणः | 7. यदृच्छा/ स्वेच्छा / सन्दर्भात् |
| 3. रूपात् | 8. निकटवासात् |
| 4. मङ्गलात् | 9. उच्चकुलात्/ श्रेष्ठकुलात् |
| 5. वाचः |
नामसङ्कीर्तनं क्रियते । एवं नवप्रकारात् नाम्नः अवकाशः अस्तीत्यतः पौराणिकादिभिः नवभ्यः नाम इति अङ्गीक्रियते । तदुक्तं –
- नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये । मधुकः श्वेतकेतुश्च गालवश्चैव मन्वते ॥
- निवासात्कर्मणो रूपान्मङ्गलाद्वाच आशिषः । यदृच्छयोपवसनात्तथामुष्यायणाच्च यत् ॥[10]
किन्तु अन्ये केचन कथयन्ति यत् चतुर्भ्यः एव प्रकारेभ्यः नामनिर्देशः भवतीति । ते च आशिषः, वाचः, अर्थवैरूप्यात् (रूपात्), कर्मणः इति कथयन्ति । तदुक्तं –
- चतुर्भ्य इति तत्राहुर्यास्कगार्ग्यरथीतराः । आशिषोऽथार्थवैरूप्याद्वाचः कर्मण एव च ॥[11] इति ।
किन्तु शौनकः सर्वाण्येतानि नामानि कर्मतः एव सम्भवन्तीति कथयति । अन्ये च प्रकाराः अपि कर्मतः एव सम्भवन्ति । तदुक्तं –
- सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः । आशी रूपं च वाच्यं च भवति कर्मतः॥[12] इति ।
एवं नानाप्रकारैः मन्त्रेषु उपयुज्यमानानि देवतानामानि प्रदत्तानि भवन्ति। वयं एतत्सर्वं ज्ञात्वा मन्त्रप्रयोगेषु, कर्मसु, देवतोपासनेषु प्रवर्तामहे ॥
- अत्र केषाञ्चन देवतासम्बद्धपादानां व्युत्पत्तिं पश्यामः –
- अग्निः – सर्वेषु अर्थेषु आत्मानं कर्मफलं वा अग्रे नयतीति अग्निः, अथवा यज्ञेषु असौ अग्रं प्रणीयते इति वा, अथवा एति ऊर्ध्वं गच्छाति च व्यनक्ति च रूपाणि दहति वा हविर्नयति च देवेभ्यः प्रयच्छति च इति।
- आदित्यः – आदत्ते असौ रसान् रश्मिभिः इति, आदत्ते ज्योतिषां ग्रहनक्षत्रादीनां भासम् इति, आददाति पदार्थेभ्यः पदार्थतत्त्वं गृह्णाति इति वा आदित्यः, सर्वतः भासा आदीप्यते आव्रियते इति आदित्यः ॥
- अन्नम् -१. आनतम् अभिमुख्येन नतं नम्रीभूतं भवति भोजनाय भूतानां जनानामर्थे इति अन्नम्, २. अद्यते, अत्ति च भूतानि इति वा अन्नम् ॥
- सोमः – सूते सौति वा सत्यम् अमृतं वा इति सोमः, सूयते अभिषूयते हि असौ यज्ञे इति सोमः, सूयते अभिषूयते अयम् आत्मानमापाद्य इति सोमः॥
- विश्वकर्मा – विश्वस्य सर्वस्य भूतस्य क्रियमाणस्य करिष्यमाणस्य च कर्ता इति विश्वकर्मा, २. विश्वेषां सर्वेषां बहुविधप्रकाशवृष्टिप्रदानादिकर्मणां कर्ता इति विश्वकर्मा, ३. विश्वेषु विश्वं वा कर्म यस्य सः विश्वकर्मा॥ (परमात्मा, सर्वव्यापारहेतुः, जगत्कारणः, विश्वकर्ता, आदित्यः, सूर्यः, देवशिल्पिः, चेतनधातुः इत्येषु अर्थयोगेषु प्रसिद्धः)
- आपः – १.आप्यन्ते व्याप्यन्ते सङ्गृह्यन्ते वा कार्स्न्येन इति आपः, २.आप्यन्ते व्याप्यन्ते इन्द्रेण लोकेषु इति आपः, ३. आप्नुवन्ति प्राप्नुवन्ति समुद्रम् इति आपः, ४. आप्नोति व्याप्नोति सर्वं जगत् इति आपः॥ (उदकम्, जलम्, आकाशः)
- मन्युः – १. मन्यते त्याज्यत्वेन ज्ञायते इति मन्युः, २. मन्यते ज्ञायते असौ इति मन्युः, ३. मन्यते अनवरतम् अनुचिन्त्यते अनेन इति मन्युः, ४. मन्यते यष्टव्यत्वेन देवान् जानाति अत्र इति मन्युः. (क्रोधः, कोपः, शोकः, दैन्यम्, यागः, क्रतुः, क्रोधः), ५. मन्यते दीप्यते अनेन तद्वान् इति मन्युः, ६. मन्यते अर्च्यते अनेन इति मन्युः, ७. मन्यते क्रुध्यति इति मन्युः (दीप्तिः, तेजः, कान्तिः, ज्ञानम्, )
- मन्त्रोक्तदेवतानामधेयानि –
तत्र मन्त्रेषु त्रिविधानि देवतानामधेयानि भवन्ति । यथा शौनकेन उक्तम् –
- देवतानामधेयानि मन्त्रेषु त्रिविधानि तु । सूक्तभाञ्ज्यथवर्ग्भाञ्जि तथा नैपातिकानि तु ॥
- सूक्तभाञ्जि भजन्ते वै सूक्तान्यृग्भाञ्जि वै ऋचः । मन्त्रेऽन्यदैवतेऽन्यानि निगद्यन्तेऽत्र कानिचित् ॥
- सालोक्यात्साहचर्याद्वा तानि नैपातिकानि तु । तस्माद्बहुप्रकारेऽपि सूक्ते स्यात् सूक्तभागिनी ॥
- देवता तद्यथा सूक्तम् अविशेष्यं प्रतीयते । भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः ॥
- तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत् । देवतायाः परिज्ञानात् तद्धि कर्म समृध्यते ॥[13]
तत्र त्रिविधानि देवतानामधेयानि –
- सूक्तदेवता (सूक्तभाञ्जि)
- मन्त्रदेवता (ऋग्भाञ्जि)
- नैपातिकाः देवताः
- सूक्तदेवता –
समग्रेऽपि सूक्ते यदि एकस्याः देवतायाः स्तवनं क्रियते तत् सूक्तम् तद्दैवत्यं भवति । अतः तदेव सूक्तदेवता इति उच्यते ।
- मन्त्रदेवता –
यदि एकस्मिन् मन्त्रे एकस्याः एव देवतायाः उल्लेखः क्रियते चेत् सः मन्त्रदेवताविभागः इति उच्यते ।
- नैपातिकाः देवताः –
तथा सूक्तेषु अथवा मन्त्रेषु देवतानिर्देशः यदि न स्पष्टः तर्हि सः नैपातिकः देवता विभागः इति कथ्यते । अर्थात् एकस्मिन् निर्दिष्टदेवताके मन्त्रे सूक्ते वा यदि तद्भिन्नदेवतायाः नाम श्रूयते चेत् तदा तत्सूक्तं, मन्त्रं वा अन्यदेवताकत्वेनापि प्रयोक्तुं शक्यते। तदेव अत्र नैपातिकाः देवताः इति उच्यन्ते। एवं देवतापरिज्ञानपूर्वकमेव मन्त्राः कर्मसु विनियोक्तव्याः् तदैव मन्त्राणाम् विनियोगात् कर्मणि समृद्धिः स्यात् अन्यथा दुर्लभा फलप्राप्तिः ।
- मन्त्रप्रकाराः –
मन्त्राः बहुप्रकारकाः सन्ति। स्थूलरूपेण मन्त्रार्थेषु आधिभौतिक-आधिदैविक-आध्यात्मिकादि प्रभेदाः सन्तीति वदामः । ततोऽपि सूक्ष्मतः संस्कारबोधकाःमन्त्राः, सृष्टिरहस्यबोधकाः मन्त्राः, दर्शनसम्बद्धाः मन्त्राः, देवतास्तुतिरूपाः मन्त्राः, संवादरूपाः मन्त्राः इत्यादीन् प्रभेदान् पश्यामः। ततोऽपि सूक्ष्मतः अवलोकयामः चेत् अनेकप्रकारान् अत्र द्रष्टुं शक्याः सन्ति येन ऋषीणां प्रज्ञावैशारद्यं कियदासीदिति मन्त्रप्रकारैः परिमातुं शक्नुमः। मन्त्राः अर्थानुसारं अनेकविधाः भवन्ति । ते च –
- स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना । स्पृहाशीः कत्थना याञ्चा प्रश्नः प्रैषः प्रवह्लिका ॥
- नियोगश्चानुयोगश्च श्लाघा विलपितं च यत् । आचिकख्यासाथ संलापः पवित्राख्यानमेव च ॥.. ..
- भूतं भव्यं भविष्यं च पुमान् स्त्री च नपुंसकम् । एवं प्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः ॥[14]
एवं स्तुति-प्रशंसा-निन्दा-संशय-विलापादिभिः अर्थैः मन्त्राः ४६ (षड्चत्वारिंशत्प्रकाराः) सन्तीति बृहद्देवताकारः शौनकाचार्यः दर्शयति।
ते च –
| 1. स्तुतिमन्त्राः | 17. आचिख्यासः | 33. आक्रोशः |
| 2. प्रशंसामन्त्राः | 18. संलापः (अन्योयं प्रीतिभाषणम्) | 34. भिष्टवः(स्तुतिः) |
| 3. निन्दा | 19. पवित्रोपख्यानम् | 35. क्षेपः |
| 4. संशयः | 20. आहननम् | 36. शापः |
| 5. विषादः | 21. नमस्कारः | 37. उपसर्गः (शुभाशुभसूचकः) |
| 6. इच्छा | 22. विघ्नः | 38. निपातः |
| 7. आशिषः | 23. सङ्कल्पः | 39. नामपदम् |
| 8. कत्थना (स्तुतिः) | 24. प्रलापः | 40. क्रियापदम् |
| 9. याञ्चा (भिक्षा) | 25. प्रत्युत्तरम् | 41. भूतकालः |
| 10. प्रश्नः | 26. प्रतिषेधः | 42. वर्तमानकालः |
| 11.प्रैषः (आज्ञा) | 27. उपदेशः | 43. भविष्यत्कालः |
| 12. प्रवह्लिका (दुर्विज्ञानार्थः प्रश्नः) | 28. मदः (दर्पः, चित्तोन्मादः) | 44. पुल्लिङ्गः |
| 13. नियोगः | 29. तिरस्कारः | 45. स्त्रीलिङ्गः |
| 14.नियमनम् | 30. उपप्रैषः(क्लेषः, उन्मादः, प्रेषणम्) | 46. नपुंसकलिङ्गम् |
| 15. स्वप्रशंसा | 31. सञ्ज्वरः (सन्तापः) | |
| 16. व्यसनम् | 32. विस्मयः |
तत्र कनिचन उदाहरणानि –
- चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु । पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥[15] अत्र ऋचि दानप्रशंसा इति विषयः भवति ।
अर्थः – चित्रो नाम राजा इन्द्रार्थं यागं कृत्वा बहु धनं प्राप्तवान् । तद् सहस्रसंख्य़ाकं धनं अयुतानि च धनानि सर्वेभ्यः प्रायच्छत् । दानं कृतवान् इत्यर्थः । यथा पर्जन्यः पृथिवीं वृष्ट्या प्रीणयति तथा अयं राज सर्वान् धनैः प्रीणयति। (अत्र चित्रम् अथवा दानमेव देवता)
- मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत् स तस्य । नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥[16] अत्र मन्त्रे निन्दायाः दृष्टान्तः भवति ।
अर्थः – दानबुद्धिर्येषां नास्ति तेषां वध एव भवति अहं सत्यं ब्रवीमि। ये हविःप्रदानेन देवतां न तर्पयन्ति, मित्राणि च न तर्पयन्ति ते अन्येभ्यः अदत्वा खादन्ति चेत् घोरपापिनः भवन्ति।
- यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह । इन्द्रस्तं हन्तु महता वधेन विश्वास्य जन्तोरधमस्पदीष्ट ॥[17] अत्र मन्त्रे शापस्य उदाहरणं भवति ।
अर्थः – यः राक्षसः मां अराक्षसं सन्तं राक्षस इति संबोधयति, यः राक्षसः अहं शुद्धः अस्मि न राक्षसः इति व्यवहरति, एवं उभयविधं राक्षसं इन्द्रः वज्रायुधेन हन्तु। सः राक्षसः अत्र अत्यन्तं निकृष्टः सन् पततु। एवं शापं ददाति ॥
- यदिन्द्र चित्र मेहनाऽस्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर॥ अत्र मन्त्रे याचनायाः दृष्टान्तः भवति ।[18]
अर्थः – हे इन्द्र ! त्वया यद् धनं दातव्यं, तद् अस्मभ्यं उभाभ्यां हस्ताभ्याम् आहर । अत्र धनस्य याचनां पश्यामः॥
- वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् ॥[19] अत्र मन्त्रे प्रार्थनायाः दृष्टान्तः भवति ।
- पृच्छामि त्वा परमन्तः पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥[20] अत्र मन्त्रे प्रश्नस्य उदाहरणं भवति ।
अर्थः – अहं त्वां प्रश्नं करोमि । यत्र सर्वा पृथिवी समाप्यते तत् पृच्छामि। पुनः यत्र इदं भुवनं संनद्धं भवति तत् पृच्छामि। अस्य आदित्यस्य कारणां किमिति पृच्छामि। सर्वस्य वाग्जातस्य मुलं कारणं किमिति पृच्छामि। एवं प्रश्नचतुष्टयं पृच्छामि। इति प्रश्नरूपः अयं मन्त्रः॥
- इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥[21] अत्र मन्त्रे उत्तरस्य दृष्टान्तः ।
अर्थः – अस्याः पृथिव्याः अन्तः इयं वेदिः, न हि वेद्यतिरिक्ता भूमिरस्ति। “एतावती वै पृथिवी यावती वेदिः”[22], अयः यज्ञः भुवनस्य संनहनम्, वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनां बन्धकत्वात्। अयं सोमः आदित्यस्य कारणम्, अग्नौ हुतः सोमरसः आदित्यं प्राफ्य वृष्ट्यादिफलं/कालं जनयति, अयः प्रजापतिरेव मन्त्रादिरूपायाः वाचः रक्षकः अथवा मूलं कारणम्॥ अयं मन्त्रः उत्तररूपः अस्ति॥
- अक्षैर्मा दीव्यः कृषिमत् कृषस्व वित्ते रमस्व बहु मन्यमानः ॥[23] अत्र मन्त्रे प्रतिषेधस्य उदाहरणं भवति।
अर्थः – यदा कश्चन पुरुषः द्यूतक्रीडभिः कालयापनं करोति यद्यपि तस्माद् उपरमणं दुःशकं तथापि स्वकीयधर्मान् ज्ञापयति श्रुतिः कृषिमत् कृषस्व इति । अत्र कृषेः प्रामुख्यं द्योतयन् तद्दिशि प्रवृत्तान् मानवान् स्व वचनैः प्रेरयति उत्तेजयति च श्रुतिः । कृषिकार्यं कृत्वा तेन सम्पादितैः धनैः सन्तोषम् अनुभवत न तु द्यूतक्रीडया । कृषिकार्येण एव स्वपत्निपुत्रान्, पशून्, गृहम् च पालयत । अनेनैव कर्मणा सर्वप्रेरकः ईश्वरः सन्तुष्टो भूत्वा जीवने आनन्दं प्रयच्छति । अयं मन्त्रः प्रतिषेधस्य उदाहरणं भवति।
- न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः । आनीतवादं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥[24] अत्र मन्त्रे वृत्तान्तस्य कथनरूपस्य दृष्टान्तः अस्ति।
एवम् अनेकप्रकाराः मन्त्राः अस्माकम् ऋषिभिः दृष्टाः सन्ति। अस्माभिः मन्त्रस्य स्वरूपं ज्ञात्वा तेषां मन्त्राणां कर्मसु विनोयोगः कर्तव्यः। अन्यथा अनर्थो जायेत। मन्त्र-देवतयोः विमर्शेण अस्मभ्यं ऋषीणां ऋतुम्भरा प्रज्ञावैशारद्यम्, मन्त्रदेवतयोः सौन्दर्यविवरणं च वयं पश्यामः। एवमेव देवतानां पृथिव्यादि-स्थानीयभेदेन, देवतानां प्रत्येकं नाम्नाम् औचित्येन, आधिभौतिकादिभेदेन देवतानां मन्त्राणां च, मन्त्रप्रकाराणां प्रत्येकं विभागेन च विमर्शात्मकम् अध्ययनं कर्तव्यम्॥
ग्रन्थसूची :-
- सायणमाधवः, सर्वदर्शनसङ्ग्रहः, भाण्डारकर् प्राच्यविद्यासंशोधन मन्दिरम्, पुण्यपत्तनम्, १९७८.
- शास्त्री आचार्यजगदीशः, ब्रह्मसूत्रशङ्करभाष्यम्, मोतिलाल् बनारसीदास्, वाराणासी २००५.
- शास्त्री कपालिः, collected works of T.V Kapali Shastri, दीप्तिप्रकाशनालयः,पुद्दुच्चेरि,१९८८
- उपाद्यायः बलदेवः, संस्कृतवाङ्मय का इतिहास, उत्तरप्रदेह्श संस्कृत संस्थानम्, लखनौ २००६.
- सायाणाचार्यः, ऋग्वेदभाष्यभूमिका, चौखाम्बा कृष्णदास् अकाडेमी,वाराणासी,२००५
- निरुक्तम्, यास्कः, चैकम्बा संस्कृतप्रतिष्ठानम्, देल्लिनगरम्, २०१२
- वैदिकसाहित्य चरित्रे, डा. एन् एस् अनन्तरङ्गाचार्, डि वि के मूर्ति प्रकाशकाः, मैसूरु, २००१
- शौनकाचार्यः, बृहद्देवता, चौकाम्बा संस्कृतसंस्थानम्, वाराणसी
- शौनकाचार्यः, ऋग्विधानम्, हरिवायू प्रकाशनम्, मैसूरु
[1] म.भा.
[2] बृ .दे -२/82-84
[3] अमर-१/७
[4] अमर-१/८
[5] अमर-१/९
[6] बृ. दे – १-३,४
[7] बृ.दे – १/६
[8] बृ.दे-१/१०,११
[9] बृ.द्दे – २२
[10] बृ.द्दे – २४, २५
[11] बृहद्देवता – २६
[12] बृहद्देवता – २७
[13] (बृ.दे- १७,१८,१९,२०, 21)
[14] बृ.दे – ३५-४०
[15] ऋक्. सं – ८/२१/१८
[16] ऋग्. सं – १०/११७/६
[17] ऋग् . सं – ७/१०४/ १६
[18] ऋग्. सं – ५/३९/१
[19] ऋग्. सं – १०/१८६/१
[20] ऋग् . सं – १/१६४/३४
[21] ऋग् . सं – १/१६४/३५
[22] यजु. तै.सं – २/६/४
[23] ऋग् . सं – १०/३४/१३
[24] ऋग् . सं – १०/१२९/२
(This paper was presented at ‘Conference on Hindu Aesthetics’ organized by Indica)
Watch video presentation of the paper here:
Image credit: saketdhamashram
Disclaimer: The opinions expressed in this article belong to the author. Indic Today is neither responsible nor liable for the accuracy, completeness, suitability, or validity of any information in the article.